श्रीमद्भगवद्गीता
।। प्रथमोऽध्याय: ।।
धृतराष्ट्रउवाच।
धर्मक्षेत्रेकुरुक्षेत्रेसमवेतायुयुत्सव: ।।
मामका: पाण्डवाश्चैवकिमकुर्वतसञ्जय।।१।।
सञ्जयउवाच।
दृष्ट्वातुपाण्डवानीकंव्यूढंदुर्योधनस्तदा।।
आचार्यमुपसङ्गम्यराजावचनमब्रवीत् ।।२।।
पशैतांपाण्डुपुत्राणामाचार्यमहतींचमूम्।।
व्यूढांद्रुपदपुत्रेणतवशिष्येणधीमता।।३।।
अत्रशूरामहेष्वासाभीमार्जुनसमायुधि।।
युयुधानोविराटश्चद्रुपदश्चमहारथ: ।।४।।
धृष्टकेतुश्चेकितान: काशिराजश्चवीर्यवान् ।।
पुरुजित् कुन्तिभोजश्चशैब्यश्चनरपुङ्गव: ।।५।।
युधामन्युश्चविक्रान्तउत्तमाैजाश्चवीर्यवान् ।।
साैभद्रोद्राैपदेयाश्चसर्वएवमहारथा: ।।६।।
अस्माकंतुविशिष्टायेतान्निबोधद्विजोत्तम।।
नायकाममसैन्यस्यसंज्ञार्थंतान् ब्रवीमिते।।७।।
भवान् भीष्मश्चकर्णश्चकृपश्चसमितिंकय: ।।
अश्वत्थामाविकर्णश्चसाैमदत्तिर्जयद्रथ: ।।८।।
अन्येचबहव: शूरामदर्थेत्यक्तजीविता: ।।
नानाशस्त्रप्रहरणा: सर्वेयुद्धविशारदा: ।।९।।
अपर्याप्तंतदस्माकंबलंभीष्माभिरक्षितम्।।
पर्याप्तंत्विदमेतेषांबलंभीमाभिरक्षितम् ।।१०।।
अयनेषुचसर्वेषुयथाभागमवस़्थिता: ।।
भीष्ममेवाभिरक्षन्तुभवन्त: सर्वएवहि।।११।।
तस्यसंजनयन्हर्षंकुरुवृद्ध: पितामह: ।।
सिंहनादंविनोद्दाेच्चै: शङ्खंदध्माैप्रतापवान्।।१२।।
तत: शङ्खाश्चभेर्यश्चपणवानकगोमुखा: ।।
सहसैवाभ्यहन्यन्तसशब्दस्तुमुलोऽभवत् ।।१३।।
तत: श्वेतैर्हयैर्युक्त्तेमहतिस्यन्दनेस्थिताै।।
माधव: पाण्डवश्चैवदिव्याैशङखाैप्रदध्मतु: ।।१४।।
पाञ्चजन्यंहृषीकेशोदेवदत्तंधनञ्जय: ।।
पाैण्ड्रंदध्माैमहाशङ्खंभीमकर्मावृकोदर: ।।१५।।
अनन्तविजयंराजाकुन्तिपुत्रोयुधिष्ठिर: ।।
नकुल: सहदेवश्चसघोषमणिपुष्पकाै।।१६।।
काश्यश्चपरमेष्वास: शिखण्डिचमहारथ: ।।
धृष्टद्युम्नोविराटश्चसात्यकिश्चापराजित: ।।१७।।
द्रुपदोद्राैपदेयाश्चसर्वश: पृथवीपते।।
साैभद्रश्चमहाबाहु: शङ्खान्दध्मु: पृथक् पृथक् ।।१८।।
सघोषोधार्तराष्ट्राणांह्रदयानिव्यदारयत् ।।
नभश्चपृथिवीञ्चैवतुमुलोऽभ्यनुनादयन् ।।१९।।
अथव्यवस्थितान्दृष्ट्वाधार्तराष्ट्रान् कपिध्वज: ।।
प्रवृत्तेशस्त्रसम्पातेधनुरूद्यम्यपाण्डव: ।।२०।। (?)
हृषीकेशंतदावाक्यमिदमाहमहीपते।।२०।।
अर्जुन उवाच ।
सेनयोरूभयोर्मध्येरथंस्थापयमेऽच्युत।।२१।।
यावदेतान्निरीक्षेऽहंयोद्धुकामानवस्थितान् ।।
कैर्मयासहयोद्धव्यमस्मिनरणसमुद्यमे।।२२।।
योत्स्यमानानवेक्षेऽहंयएतेऽत्रसमागता: ।।
धार्तराष्ट्रस्यदुर्बुद्धेर्युद्धेप्रियचिकीर्षव: ।।२३।।
सञ्जय उवाच ।
एवमुक्तोहृषीकेशोगुडकेशेनभारत।।
सेनयोरूभयोर्मध्येस्थापयित्वारथोत्तमम् ।।२४।।
भीष्मद्रोणप्रमुखत: सर्वेषांचमहीक्षिताम् ।।
उवाचपार्थपश्यैतान्समवेतान् कुरूनिति।।२५।।
तत्रापश्यत् स्थितान् पार्थ: पितृृनथ पितामहान् ।।
आचार्यान् मातुलान् भ्रातृृन् पुत्रान् पाैत्रान् सखींस्तथा ।।
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।।२६।।
तान् समीक्ष्य स काैन्तेय: सर्वान्बन्धुनवस्थितान् ।।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।।२७।।
अर्जुन उवाच ।
दृष्ट्वेमंस्वजनंकृष्णयुयुत्सुंसमुपस्थितम् ।।
सिदन्तिममगात्राणिमुखंचपरिशुष्यति ।।
वेपथुश्र्च शरीरे मे रोमहर्षश्र्च जायते ।।२८।।
गाण्डीवं स्रंसते हस्तात्त्वक्वैव परिदह्यते ।।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: ।।२९।।
निमित्तानि च पश्यामि विपरीतानि केशव ।।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ।।३०।।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।।३१।।
येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च ।।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।३२।।
आचार्या: पितर: पुत्रास्तथैव च पितामहा: ।।
मातुला: श्र्वशुरा: पाैत्रा: श्याला: सम्बन्धिनस्तथा ।।३३।।
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।।
अपि त्रैलोक्यराज्यस्य हेतो: किं नु महिकृते ।।३४।।
निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन: ।।
पापमेवाश्रयेदस्मिन् हत्वैतानाततायिन: ।।३५।।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।।
स्वजनं हि कथं हत्वा सुखिन: स्याम माधव ।।३६।।
यद्यप्येते न पश्यन्ति लोभोपहतचेतस: ।।
कुलक्षयकृतं दोषं मित्रदोहे च पातकम् ।।३७।।
कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् ।।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ।।३८।।
कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना:
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ।।३९।।
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्रिय: ।।
स्त्रिषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: ।।४०।।
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।।
नरके नियतं वासो भवतीत्यनिशुश्रुम ।।४१।।
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।।
यद्राज्यसुखलोभेन हंन्तुं स्वजनमुद्यता: ।।४२।।
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणाय: ।।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ।।४३।।
सञ्जय उवाच ।
एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपावोशत् ।।
विसृज्य सशरं चापं शोकसंविग्नमानस: ।।४४।।