श्रीमद्भगवद्गीता

।।  प्रथमोऽध्याय।।

धृतराष्ट्रउवाच

धर्मक्षेत्रेकुरुक्षेत्रेसमवेतायुयुत्सव: ।।

मामका: पाण्डवाश्चैवकिमकुर्वतसञ्जय।।१।।

सञ्जयउवाच।

दृष्ट्वातुपाण्डवानीकंव्यूढंदुर्योधनस्तदा।।

आचार्यमुपसङ्गम्यराजावचनमब्रवीत्।।२।।

पशैतांपाण्डुपुत्राणामाचार्यमहतींचमूम्।।

व्यूढांद्रुपदपुत्रेणतवशिष्येणधीमता।।३।।

अत्रशूरामहेष्वासाभीमार्जुनसमायुधि।।

युयुधानोविराटश्चद्रुपदश्चमहारथ: ।।४।।

धृष्टकेतुश्चेकितान: काशिराजश्चवीर्यवान्।।

पुरुजित्कुन्तिभोजश्चशैब्यश्चनरपुङ्गव: ।।५।।

युधामन्युश्चविक्रान्तउत्तमाैजाश्चवीर्यवान्।।

साैभद्रोद्राैपदेयाश्चसर्वएवमहारथा: ।।६।।

अस्माकंतुविशिष्टायेतान्निबोधद्विजोत्तम।।

नायकाममसैन्यस्यसंज्ञार्थंतान्ब्रवीमिते।।७।।

भवान्भीष्मश्चकर्णश्चकृपश्चसमितिंकय: ।।

अश्वत्थामाविकर्णश्चसाैमदत्तिर्जयद्रथ: ।।८।।

अन्येचबहव: शूरामदर्थेत्यक्तजीविता: ।।

नानाशस्त्रप्रहरणा: सर्वेयुद्धविशारदा: ।।९।।

अपर्याप्तंतदस्माकंबलंभीष्माभिरक्षितम्।।

पर्याप्तंत्विदमेतेषांबलंभीमाभिरक्षितम्।।१०।।

अयनेषुचसर्वेषुयथाभागमवस़्थिता: ।।

भीष्ममेवाभिरक्षन्तुभवन्त: सर्वएवहि।।११।।

तस्यसंजनयन्हर्षंकुरुवृद्ध: पितामह: ।।

सिंहनादंविनोद्दाेच्चै: शङ्खंदध्माैप्रतापवान्।।१२।।

तत: शङ्खाश्चभेर्यश्चपणवानकगोमुखा: ।।

सहसैवाभ्यहन्यन्तसशब्दस्तुमुलोऽभवत्।।१३।।

तत: श्वेतैर्हयैर्युक्त्तेमहतिस्यन्दनेस्थिताै।।

माधव: पाण्डवश्चैवदिव्याैशङखाैप्रदध्मतु: ।।१४।।

पाञ्चजन्यंहृषीकेशोदेवदत्तंधनञ्जय: ।।

पाैण्ड्रंदध्माैमहाशङ्खंभीमकर्मावृकोदर: ।।१५।।

अनन्तविजयंराजाकुन्तिपुत्रोयुधिष्ठिर: ।।

नकुल: सहदेवश्चसघोषमणिपुष्पकाै।।१६।।

काश्यश्चपरमेष्वास: शिखण्डिचमहारथ: ।।

धृष्टद्युम्नोविराटश्चसात्यकिश्चापराजित: ।।१७।।

द्रुपदोद्राैपदेयाश्चसर्वश: पृथवीपते।।

साैभद्रश्चमहाबाहु: शङ्खान्दध्मु: पृथक्पृथक्।।१८।।

सघोषोधार्तराष्ट्राणांह्रदयानिव्यदारयत्।।

नभश्चपृथिवीञ्चैवतुमुलोऽभ्यनुनादयन्।।१९।।

अथव्यवस्थितान्दृष्ट्वाधार्तराष्ट्रान्कपिध्वज: ।।

प्रवृत्तेशस्त्रसम्पातेधनुरूद्यम्यपाण्डव: ।।२०।। (?)

हृषीकेशंतदावाक्यमिदमाहमहीपते।।२०।।

                 अर्जुन उवाच

सेनयोरूभयोर्मध्येरथंस्थापयमेऽच्युत।।२१।।

यावदेतान्निरीक्षेऽहंयोद्धुकामानवस्थितान्।।

कैर्मयासहयोद्धव्यमस्मिनरणसमुद्यमे।।२२।।

योत्स्यमानानवेक्षेऽहंयएतेऽत्रसमागता: ।।

धार्तराष्ट्रस्यदुर्बुद्धेर्युद्धेप्रियचिकीर्षव: ।।२३।।

              सञ्जय उवाच

एवमुक्तोहृषीकेशोगुडकेशेनभारत।।

सेनयोरूभयोर्मध्येस्थापयित्वारथोत्तमम्।।२४।।

भीष्मद्रोणप्रमुखत: सर्वेषांचमहीक्षिताम्।।

उवाचपार्थपश्यैतान्समवेतान्कुरूनिति।।२५।।

तत्रापश्यत्‌ स्थितान्‌ पार्थ: पितृृनथ पितामहान्‌ ।।

आचार्यान्‌ मातुलान्‌ भ्रातृृन्‌ पुत्रान्‌ पाैत्रान्‌ सखींस्तथा ।।

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।।२६।।

तान् समीक्ष्य स काैन्तेय: सर्वान्बन्धुनवस्थितान्‌ ।।

कृपया परयाविष्टो विषीदन्निदमब्रवीत्‌ ।।२७।।

                 अर्जुन उवाच

दृष्ट्वेमंस्वजनंकृष्णयुयुत्सुंसमुपस्थितम्‌ ।।

सिदन्तिममगात्राणिमुखंचपरिशुष्यति ।।

वेपथुश्र्च शरीरे मे रोमहर्षश्र्च जायते ।।२८।।

गाण्डीवं स्रंसते हस्तात्त्वक्वैव परिदह्यते ।।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: ।।२९।।

निमित्तानि च पश्यामि विपरीतानि केशव ।।

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ।।३०।।

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।।३१।।

येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च ।।

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।३२।।

आचार्या: पितर: पुत्रास्तथैव च पितामहा: ।।

मातुला: श्र्वशुरा: पाैत्रा: श्याला: सम्बन्धिनस्तथा ।।३३।।

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।।

अपि त्रैलोक्यराज्यस्य हेतो: किं नु महिकृते ।।३४।।

निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन: ।।

पापमेवाश्रयेदस्मिन्‌ हत्वैतानाततायिन: ।।३५।।

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्‌ स्वबान्धवान्‌ ।।

 स्वजनं हि कथं हत्वा सुखिन: स्याम माधव ।।३६।।

यद्यप्येते न पश्यन्ति लोभोपहतचेतस: ।।

कुलक्षयकृतं दोषं मित्रदोहे च पातकम्‌ ।।३७।।

कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम्‌ ।।

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ।।३८।।

कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना:

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ।।३९।।

अधर्माभिभवात्‌ कृष्ण प्रदुष्यन्ति कुलस्रिय: ।।

स्त्रिषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: ।।४०।।

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।।

नरके नियतं वासो भवतीत्यनिशुश्रुम ।।४१।।

अहो बत महत्पापं कर्तुं व्यवसिता वयम्‌ ।।

यद्राज्यसुखलोभेन हंन्तुं स्वजनमुद्यता: ।।४२।।

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणाय: ।।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ।।४३।।

               सञ्जय उवाच ।

एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपावोशत्‌ ।।

विसृज्य सशरं चापं शोकसंविग्नमानस: ।।४४।।